श्री ललिता त्रिशति ललितात्रिशतीस्तोत्रम्
॥ श्रीललितात्रिशती पूर्वपीठिका ॥
अगस्त्य उवाच -- हयग्रीव दया सिन्धो भगवन् शिष्य वत्सल । त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्तितत् ॥ १॥ रहस्य नाम साहस्रमपि त्वत्तः श्रुतं मय । इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥ २॥ तथापि मम चित्तस्य पर्याप्तिर्नैव जायते। कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ ३॥ किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः । अस्ति चेन्मम तद्ब्रूहि ब्रूहीत्युक्ता प्रणम्य तम् ॥ ४॥ सूत उवाच - समाललम्बे तत्पाद युगळं कलशोद्भवः । हयाननो भीतभीतः किमिदं किमिदं त्विति ॥ ५॥ मुञ्चमुञ्चेति तं चोक्का चिन्ताक्रान्तो बभूव सः । चिरं विचार्य निश्चिन्वन् वक्तव्यं न मयेत्यसौ ॥ ६॥ तष्णी स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा । प्रणम्य विप्रं समुनिस्तत्पादावत्यजन्स्थितः ॥ ७॥ वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ। तछृंवन्तश्च पश्यन्तः सर्वे लोकाः सुविस्मिताः ॥ ८॥ तत्र श्रीललितादेवी कामेश्वरसमन्विता । प्रादुर्भूता हयग्रीवं रहस्येवमचोदयत् ॥ ९॥ श्रीदेवी उवाच - आश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि । राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ १०॥ स्वमातृ जारवत् गोप्या विद्यैषत्यागमा जगुः । ततो ऽतिगोपनिया मे सर्वपूर्तिकरी स्तुतिः ॥ ११॥ मया कामेश्वरेणापि कृता साङ्गोपिता भृशम् । मदाज्ञया वचोदेव्यश्चत्ररर्नामसहस्रकम् ॥ १२॥ आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः । सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥ १३॥ सर्व पूर्तिकरं तस्मादिदं नाम कृतं मया । तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥ १४॥ पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः । अयञ्च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥ १५॥ अमुञ्चमानस्त्वद्वादौ वर्षत्रयमसौ स्थितः । एतज्ज्ञातुमतो भक्तया हितमेव निदर्शनम् ॥ १६॥ चित्तपर्याप्तिरेतस्य नान्यथा सम्भविष्यती । सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥ १७॥ सूत उवाच - इत्युक्तान्तरधदाम्बा कामेश्वरसमन्विता । अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसम्भवम् ॥ १८॥ संस्थाप्य निकटेवाच उवाच भृश विस्मितः । हयग्रीव उवाच -- कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥ १९॥ त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्रये । एनागस्त्य स्वयं देवी तववक्तव्यमन्वशात् ॥ २०॥ सच्छिष्येन त्वया चाहं दृष्ट्वानस्मि तां शिवाम् । यतन्ते दर्शनार्थाय ब्रह्मविष्ण्वीशपूर्वकाः ॥ २१॥ अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्थवम् । यस्य स्मरण मात्रेण पर्याप्तिस्ते भवेद्धृदि ॥ २२॥ रहस्यनाम साह्स्रादपि गुह्यतमं मुने । आवश्यकं ततोऽप्येतल्ललितां समुपासितुम् ॥ २३॥ तदहं सम्प्रवक्ष्यामि ललिताम्बानुशासनात् । श्रीमत्पञ्चदशाक्षर्याः कादिवर्णान्क्रामन् मुने ॥ २४॥ पृथग्विंशति नामानि कथितानि घटोद्भव । आहत्य नाम्नां त्रिशती सर्वसम्पूर्तिकारणी ॥ २५॥ रहस्यादिरहस्यैषा गोपनीया प्रयत्नतः । तां शृणुष्व महाभाग सावधानेन चेतसा ॥ २६॥ केवलं नामबुद्धिस्ते न कार्य तेषु कुम्भज। मन्त्रात्मकं एतेषां नाम्नां नामात्मतापि च ॥ २७॥ तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा । सूत उवाच - इति युक्ता तं हयग्रीवः प्रोचे नामशतत्रयम् ॥ २८॥ ॥ इति श्रीललितात्रिशतीस्तोत्रस्य पूर्वपीठिका सम्पूर्णम् ।
॥ न्यासम् ॥
अस्य श्रीललितात्रिशती स्तोत्रनामावलिः महामन्त्रस्य भगवान् हयग्रीव ऋषिः, अनुष्टुप्छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता, ऐं बीजम्, सौः शक्तिः, क्लों कीलकम्, मम चतुर्विधफलपुरुषार्थ जपे (वा) परायणे विनियोगः ॥
ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लों कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ॥ ऐं हृदयाय नमः । क्लों शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुं । क्लों नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
॥ ध्यानम्॥
अतिमधुरचापहस्ताम्परिमितामोदसौभाग्याम् । अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे ॥
॥ लं इत्यादि पञ्चपूजा ॥
लं पृथिव्यात्मिकायै श्रीललिताम्बिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै श्रीललिताम्बिकायै पुष्पैः पूजयामि । यं वाय्वात्मिकायै श्रीललिताम्बिकायै कुङ्कुमं आवाहयामि । रं वह्यात्मिकायै श्रीललिताम्बिकायै दीपं दर्शयामि । वं अमृतात्मिकायै श्रीललिताम्बिकायै अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मिकायै श्रीललिताम्बिकायै सर्वोपचारपूजां समर्पयामि ॥
॥ अथ श्रीललितात्रिशती स्तोत्रम् ॥
ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ॥ १॥ कमलाक्षी कल्मषघ्नी करुणामृत सागरा । कदम्बकाननावासा कदम्ब कुसुमप्रिया ॥ २॥ कन्दर्पविद्या कन्दर्प जनकापाङ्ग वीक्षणा । कर्पूरवीटी सौरभ्य कल्लोलित ककुप्तटा ॥ ३॥ कलिदोषहरा कञ्जलोचना कम्रविग्रहा । कर्मादि साक्षिणी कारयित्री कर्मफलप्रदा ॥ ४॥ एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः । एतत्तदित्यनिर्देश्या चैकानन्द चिदाकृतिः ॥ ५॥ एवमित्यागमाबोध्या चैकभक्ति मदर्चिता । एकाग्रचित्त निर्ध्याता चैषणा रहिताद्दृता ॥ ६॥ एलासुगन्धिचिकुरा चैनः कूट विनाशिनी । एकभोगा चैकरसा चैकैश्वर्य प्रदायिनी ॥ ७॥ एकातपत्र साम्राज्य प्रदा चैकान्तपूजिता । एधमानप्रभा चैजदनेकजगदीश्वरी ॥ ८॥ एकवीरादि संसेव्या चैकप्राभव शालिनी । ईकाररूपा चेशित्री चेप्सितार्थ प्रदायिनी ॥ ९॥ ईद्दृगित्य विनिर्देश्या चेश्वरत्व विधायिनी । ईशानादि ब्रह्ममयी चेशित्वाद्यष्ट सिद्धिदा ॥ १०॥ ईक्षित्रीक्षण सृष्टाण्ड कोटिरीश्वर वल्लभा । ईडिता चेश्वरार्धाङ्ग शरीरेशाधि देवता ॥ ११॥ ईश्वर प्रेरणकरी चेशताण्डव साक्षिणी । ईश्वरोत्सङ्ग निलया चेतिबाधा विनाशिनी ॥ १२॥ ईहाविराहिता चेश शक्ति रीषत् स्मितानना । लकाररूपा ललिता लक्ष्मी वाणी निषेविता ॥ १३॥ लाकिनी ललनारूपा लसद्दाडिम पाटला । ललन्तिकालसत्फाला ललाट नयनार्चिता ॥ १४॥ लक्षणोज्ज्वल दिव्याङ्गी लक्षकोट्यण्ड नायिका । लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ १५॥ ललामराजदलिका लम्बिमुक्तालताञ्चिता । लम्बोदर प्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ १६॥ ह्रींकार रूपा ह्रींकार निलया ह्रींपदप्रिया । ह्रींकार बीजा ह्रींकारमन्त्रा ह्रींकारलक्षणा ॥ १७॥ ह्रींकारजप सुप्रीता ह्रींमती ह्रींविभूषणा । ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥ १८॥ ह्रींकारवाच्या ह्रींकार पूज्या ह्रींकार पीठिका । ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रीं ह्रींशरीरिणी ॥ १९॥ हकाररूपा हलधृत्पूजिता हरिणेक्षणा । हरप्रिया हराराध्या हरिब्रह्मेन्द्र वन्दिता ॥ २०॥ हयारूढा सेवितांघ्रिर्हयमेध समर्चिता । हर्यक्षवाहना हंसवाहना हतदानवा ॥ २१॥ हत्यादिपापशमनी हरिदश्वादि सेविता । हस्तिकुम्भोत्तुङ्क कुचा हस्तिकृत्ति प्रियाङ्गना ॥ २२॥ हरिद्राकुङ्कुमा दिग्धा हर्यश्वाद्यमरार्चिता । हरिकेशसखी हादिविद्या हालामदोल्लसा ॥ २३॥ सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला । सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥ २४॥ सर्वानवद्या सर्वाङ्ग सुन्दरी सर्वसाक्षिणी । सर्वात्मिका सर्वसौख्य दात्री सर्वविमोहिनी ॥ २५॥ सर्वाधारा सर्वगता सर्वावगुणवर्जिता । सर्वारुणा सर्वमाता सर्वभूषण भूषिता ॥ २६॥ ककारार्था कालहन्त्री कामेशी कामितार्थदा । कामसञ्जीविनी कल्या कठिनस्तन मण्डला ॥ २७॥ करभोरुः कलानाथ मुखी कचजिताम्भुदा । कटाक्षस्यन्दि करुणा कपालि प्राण नायिका ॥ २८॥ कारुण्य विग्रहा कान्ता कान्तिधूत जपावलिः । कलालापा कम्बुकण्ठी करनिर्जित पल्लवा ॥ २९॥ कल्पवल्ली समभुजा कस्तूरी तिलकाञ्चिता । हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥ ३०॥ हारहारि कुचाभोगा हाकिनी हल्यवर्जिता । हरित्पति समाराध्या हठात्कार हतासुरा ॥ ३१॥ हर्षप्रदा हविर्भोक्त्री हार्द सन्तमसापहा । हल्लीसलास्य सन्तुष्टा हंसमन्त्रार्थ रूपिणी ॥ ३२॥ हानोपादान निर्मुक्ता हर्षिणी हरिसोदरी । हाहाहूहू मुख स्तुत्या हानि वृद्धि विवर्जिता ॥ ३३॥ हय्यङ्गवीन हृदया हरिकोपारुणांशुका । लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ ३४॥ लास्य दर्शन सन्तुष्टा लाभालाभ विवर्जिता । लङ्घ्येतराज्ञा लावण्य शालिनी लघु सिद्धिदा ॥ ३५॥ लाक्षारस सवर्णाभा लक्ष्मणाग्रज पूजिता । लभ्यतरा लब्ध भक्ति सुलभा लाङ्गलायुधा ॥ ३६॥ लग्नचामर हस्त श्रीशारदा परिवीजिता । लज्जापद समाराध्या लम्पटा लकुलेश्वरी ॥ ३७॥ लब्धमाना लब्धरसा लब्ध सम्पत्समुन्नतिः । ह्रींकारिणी च ह्रींकारी ह्रींमध्या ह्रींशिखामणिः ॥ ३८॥ ह्रींकारकुण्डाग्नि शिखा ह्रींकार शशिचन्द्रिका । ह्रींकार भास्कररुचिर्ह्रींकारांभोद चञ्चला ॥ ३९॥ ह्रींकार कन्दाङ्कुरिका ह्रींकारैक परायणाम् । ह्रींकार दीर्घिकाहंसी ह्रींकारोद्यान केकिनी ॥ ४०॥ ह्रींकारारण्य हरिणी ह्रींकारावाल वल्लरी । ह्रींकार पञ्जरशुकी ह्रींकाराङ्गण दीपिका ॥ ४१॥ ह्रींकार कन्दरा सिंही ह्रींकाराम्भोज भृङ्गिका । ह्रींकार सुमनो माध्वी ह्रींकार तरुमंजरी ॥ ४२॥ सकाराख्या समरसा सकलागम संस्तुता । सर्ववेदान्त तात्पर्यभूमिः सदसदाश्रया ॥ ४३॥ सकला सच्चिदानन्दा साध्या सद्गतिदायिनी । सनकादिमुनिध्येया सदाशिव कुटुम्बिनी ॥ ४४॥ सकालाधिष्ठान रूपा सत्यरूपा समाकृतिः । सर्वप्रपञ्च निर्मात्री समनाधिक वर्जिता ॥ ४५॥ सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेश्वरी । सकलेष्टदा ककारिणी काव्यलोला कामेश्वर मनोहरा ॥ ४६॥ कामेश्वरप्रणानाडी कामेशोत्सङ्ग वासिनी । कामेश्वरालिङ्गिताङ्गी कमेश्वर सुखप्रदा ॥ ४७॥ कामेश्वर प्रणयिनी कामेश्वर विलासिनी । कामेश्वर तपः सिद्धिः कामेश्वर मनः प्रिया ॥ ४८॥ कामेश्वर प्राणनाथा कामेश्वर विमोहिनी । कामेश्वर ब्रह्मविद्या कामेश्वर गृहेश्वरी ॥ ४९॥ कामेश्वराह्लादकरी कामेश्वर महेश्वरी । कामेश्वरी कामकोटि निलया काङ्क्षितार्थदा ॥ ५०॥ लकारिणी लब्धरूपा लब्धधीर्लब्ध वाञ्चिता । लब्धपाप मनोदूरा लब्धाहङ्कार दुर्गमा ॥ ५१॥ लब्धशक्तिर्लब्ध देहा लब्धैश्वर्य समुन्नतिः । लब्धवृद्धिर्लब्धलीला लब्धयौवन शालिनी ॥ ५२॥ लब्धबुधिः लब्धातिशय सर्वाङ्ग सौन्दर्या लब्धविभ्रमा । लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥ ५३॥ लब्धगति लब्धभोगा लब्धसुखा लब्धहर्षाभि पूजिता । ह्रींकार मूर्तिर्ह्रीण्कार सौधशृङ्ग कपोतिका ॥ ५४॥ ह्रींकार दुग्धाब्धि सुधा ह्रींकार कमलेन्दिरा । ह्रींकारमणि दीपार्चिर्ह्रींकार तरुशारिका ॥ ५५॥ ह्रींकार पेटक मणिर्ह्रींकारदर्श बिम्बिता । ह्रींकार कोशासिलता ह्रींकारास्थान नर्तकी ॥ ५६॥ ह्रींकार शुक्तिका मुक्तामणिर्ह्रींकार बोधिता । ह्रींकारमय सौवर्णस्तम्भ विद्रुम पुत्रिका ॥ ५७॥ ह्रींकार वेदोपनिषद् ह्रींकाराध्वर दक्षिणा । ह्रींकार नन्दनाराम नवकल्पक वल्लरी ॥ ५८॥ ह्रींकार हिमवद्गङ्गा ह्रींकारार्णव कौस्तुभा । ह्रींकार मन्त्र सर्वस्वा ह्रींकारपर सौख्यदा ॥ ५९॥ ॥ इति श्रीललितात्रिशतीस्तोत्रं सम्पूर्णम् ॥ ॥ श्रीललिता त्रिशती उत्तर पीठिका ॥ हयग्रीव उवाच - इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् । रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥ १॥ शिववर्णानि नामानि श्रीदेव्या कथितानि हि । शक्तयक्षराणि नामानि कामेशकथितानि च ॥ २॥ उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै । तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ ३॥ नानेन सदृशं स्तोत्रं श्रीदेवी प्रीतिदायकम् । लोकत्रयेऽपि कल्याणं सम्भवेन्नात्र संशयः॥ ४॥ सूत उवाच - इति हयमुखगीतं स्तोत्रराजं निशम्य प्रगलित कलुषोऽभृच्चित्तपर्याप्तिमेत्य । निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ ५॥ अगस्त्य उवाच -- अश्वानन महाभाग रहस्यमपि मे वद । शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ ६॥ उभयोरपि वर्णानि कानि वा वद देशिक। इति पृष्टः कुम्भजेन हयग्रीवोऽवदत्युनः ॥ ७॥ हयग्रीव उवाच - तव गोप्यं किमस्तीह साक्षादम्बानुशासनात् । इदं त्वतिरहस्यं ते वक्ष्यामि कुम्भज ॥ ८॥ एतद्विज्ञनमात्रेण श्रिविद्या सिद्धिदा भवेत् । कत्रयं हद्बयं चैव शैवो भागः प्रकीर्तितः ॥ ९॥ शक्तयक्षराणि शेषाणिह्रीङ्कार उभयात्मकः । एवं विभागमज्ञात्वा ये विद्याजपशालिनः ॥ १०॥ न तेशां सिद्धिदा विद्या कल्पकोटिशतैरपि । चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ॥ ११॥ नव चक्रैश्ल संसिद्धं श्रीचक्रं शिवयोर्वपुः । त्रिकोणमष्टकोनं च दशकोणद्बयं तथा ॥ १२॥ चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च । बिन्दुश्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् ॥ १३॥ चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् । त्रिकोणे बैन्दवं श्लिष्टं अष्टारेष्टदलाम्बुजम् ॥ १४॥ दशारयोः षोडशारं भूगृहं भुवनाश्रके । शैवानामपि शाक्तानां चक्राणां च परस्परं ॥ १५॥ अविनाभावसम्बन्धं यो जानाति स चक्रवित् । त्रिकोणरूपिणि शक्तिर्बिन्दुरूपपरः शिवः ॥ १६॥ अविनाभावसम्बन्धं तस्माद्विन्दुत्रिकोणयोः । एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ १७॥ न तत्फलमवाप्नोति ललिताम्बा न तुष्यति । ये च जानन्ति लोकेऽस्मिन्श्रीविद्याचक्रवेदिनः ॥ १८॥ सामन्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः । स्वयं विद्या विशेषज्ञो विशेषज्ञ समर्चयेत् ॥ १९॥ तस्मैः देयं ततो ग्राह्यमशक्तस्तव्यदापयेत्। अन्धम्तमः प्रविशन्ति ये ऽविद्यां समुपासते ॥ २०॥ इति श्रुतिरपाहैतानविद्योपासकान्पुनः । विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुतिः ॥ २१॥ अश्रुता सश्रुतासश्व यज्चानों येऽप्ययञ्जनः । सवर्यन्तो नापेक्षन्ते इन्द्रमग्निश्च ये विदुः ॥ २२॥ सिकता इव संयन्ति रश्मिभिः समुदीरिताः । अस्माल्लोकादमुष्माच्चेत्याह चारण्यक श्रुतिः ॥ २३॥ यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम्। तेनैव लभ्यते विद्या श्रीमत्पच्चदशाक्षरी ॥ २४॥ इति मन्त्रेषु बहुधा विद्याया महिमोच्यते । मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ २५॥ न शिल्पदि ज्ञानयुक्ते विद्वच्छव्धः प्रयुज्यते । मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ २६॥ तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते । स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥ २७॥ स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यमवेद्यपि विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥ २८॥ प्रसङ्गादिदमुक्तं ते प्रकृतं शृणु कुम्भज । यः कीर्तयेत्सकृत्भक्तया दिव्यनामशतत्रयम् ॥ २९॥ तस्य पुण्यमहं वक्ष्ये द्वं कुम्भसम्भव । रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ ३०॥ तत्फलं कोटिगुणितमेकनामजपाद्भवेत् । कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ ३१॥ नान्येन तुलयेदेतत्स्तोत्रेणान्य कृतेन च । श्रियः परम्परा यस्य भावि वा चोत्तरोत्तरम् ॥ ३२॥ तेनैव लभ्यते चैतत्पश्चाच्छेयः परीक्षयेत् । अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्णयते ॥ ३३॥ या स्वयं शिवयोर्वक्तपद्माभ्यां परिनिःसृता । नित्यं षोडशसङ्ख्याकान्विप्रानादौ तु भोजयेत् ॥ ३४॥ अभ्यक्ताम्सितिलतैलेन स्नातानुष्णेन वारिणा । अभ्यर्च गन्धपुष्पाद्यैः कामेश्वर्यादिनामभिः ॥ ३५॥ सूपापूपैः शर्कराद्मैः पायसैः फलसंयुतैः । विद्याविदो विशेषेण भोजयेत्पोडश द्विजान् ॥ ३६॥ एवं नित्यार्चनं कुर्यातादौ ब्राह्मण भोजनम् । त्रिशतीनामभिः पश्चाद्वाह्मणान्क्रमशोऽर्चयेत् ॥ ३७॥ तैलाभ्यङ्गातिकं दत्वा विभवे सति भक्तितः । शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ ३८॥ दिवसे दिवसे विप्रा भोज्या विम्शतीसङ्ख्यया । दशभिः पञ्चभिर्वापि त्रीभिरेकनवा दिनैः ॥ ३९॥ त्रिम्शत्पष्टिः शतं विप्राः सम्भोज्यस्तिशतं क्रमात् । एवं यः कुरुते भक्तया जन्ममध्ये सकृन्नरः ॥ ४०॥ तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिराः । रहस्यनाम साहस्त्र भोजनेऽप्येव्मेवहि ॥ ४१॥ आदौ नित्यबलिं कुर्यात्पश्चाद्वाह्मणभोजनम् । रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ ४२॥ सशिकराणुरत्रैकनामप्नो महिमवारिधेः । वाग्देवीरचिते नामसाहस्ने यद्यदीरितम् ॥ ४३॥ तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् । एतन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ ४४॥ तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् । वाग्देविरचितास्तोत्रे तादृशो महिमा यदि ॥ ४५॥ साक्षात्कामेशकामेशी कृते ऽस्मिन्गृहृतामिति । सकृत्सन्कीर्तनादेव नाम्नाम्नस्मिव्शतत्रये ॥ ४६॥ भवेच्चित्तस्य पर्यप्तिर्न्यूनमन्यानपेक्षिणी । न ज्ञातव्यमितोऽप्यन्यत्र जप्तव्यश्च कुम्भज ॥ ४७॥ यद्यत्साध्यतमं कार्य तत्तदर्थमिदञ्जपेत् । तत्तत्फलमवाप्नोति पश्चात्कार्य परीक्षयेत् ॥ ४८॥ ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलं । तत्सर्व सिद्धयति क्षिप्रं नामत्रिशतकीर्तनात् ॥ ४९॥ आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् । विद्याप्रदं कीर्तिकरं सुखवित्वप्रदायकम् ॥ ५०॥ सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम् । सर्वाभिष्टप्रदं चैव देव्या नामशतत्रयम् ॥ ५१॥ एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन । एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका ॥ ५२॥ भक्तस्य यद्यदिष्टं स्यात्तत्तत्यूरयते ध्रुवं । तस्मात्कुभोद्भवमुने कीर्तय त्वमिदम् सदा ॥ ५३॥ नापरं किञ्चिदपि ते बोद्धव्यं नावशिष्यते । इति ते कथितं स्तोत्र ललिता प्रीतिदायकम् ॥ ५४॥ नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन । न शठाय न दुष्टाय नाविश्वासाय कहिर्चित्॥ ५६॥ यो ब्रूयात्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् । इत्याज्ञा शाङ्करी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥ ५७॥ ललिता प्रेरितेनैव मयोक्तम् स्तोत्रमुत्तमम् । रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ ५८॥ सूत उवाच - एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् । स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरी ॥ आनन्दलहरीमग्नरमानसः समवर्तत ॥ ५९॥
॥ इति श्री ब्रह्माण्डपुराणे उत्तराखण्डे श्री हयग्रीवागस्त्यसंवादे श्रीललितात्रिशती स्तोत्र कथनं सम्पूर्णम् ॥
BACK TO TOP